________________
५३१
षष्ठमध्ययनं षट्स्थानकम् । श्रोत्रेन्द्रियादिभिः प्रथममविकल्पं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तर्मोहूर्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदास:, स हि चतुर्धा । आणुगामिए त्ति अनुगमनशीलमनुगामि तदेवाऽऽनुगामिकं देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति ।
यत्तु क्षेत्रतोऽङ्गुलासङ्ख्येयभागविषयं कालत आवलिकासङ्ख्येयभागविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्ख्येयपर्यायविषयं च जघन्यत: समुत्पद्य पुनर्वृद्धि विषयविस्तरणात्मिकां गच्छदुत्कर्षेणाऽलोके लोक-प्रमाणान्यसङ्ख्येयानि खण्डान्यसङ्ख्येया उत्सर्पिण्यवसर्पिणी: सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्ख्येयपर्यायांश्च विषयीकरोति तद्वर्धमानमिति । ___ तथा यजघन्येनाङ्गुलासङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्क्लेशवशात् क्रमेण हानि विषयसङ्कोचात्मिकां याति यावदमुलासङ्ख्येयभागं तद्धीयमानमिति । तथा प्रतिपतनशीलं प्रतिपाति उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति । - [सू० ५२७] नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवतणाई वदित्तते, तंजहा-अलियवयणे, हीलियवयणे, खिंसितवयणे, फरुसवयणे, गारत्थियवयणे, विउसवितं वा पुणो उदीरित्तते ।
[टी०] एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह-नो कप्पतीत्यादि कण्ठ्यम्, नवरम् अवयणाई ति नञ: कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, तत्राऽलीकं प्रचलायसे किं दिवा' इत्यादिप्रश्ने न प्रचलायामि' इत्यादि, हीलितं सासूयं 'गणिन् ! वाचक ! ज्येष्ठार्य' इत्यादि, खिंसितं जन्म-कर्माद्युद्घट्टनतः, परुषं दुष्टशैक्षेत्यादि, गारं ति अगारं गेहं तवृत्तयो अगारस्थिता: गृहिण: तेषां यत्तदगारस्थितवचनं 'पुत्र ! मामक ! भागिनेय !' इत्यादि, उक्तं च