________________
५३०
चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपळतेषु द्विस्थानकोक्तक्रमेण द्वे द्वे कूटे समवसेये इति ।
[सू०५२३] छ उऊ पन्नत्ता, तंजहा-वरिसारत्ते, सरए, हेमंते, शिशिरे] सिसिरे, वसंते, गिम्हे१॥
[सू० ५२४] छ ओमरत्ता पन्नत्ता, तंजहा-ततिते पव्वे, सत्तमे पव्वे, एक्कारसमे पव्वे, पन्नरसमे पव्वे, एगूणवीसतिमे पव्वे, तेवीसइमे पव्वे २॥
छ अइरत्ता पन्नत्ता, तंजहा-चउत्थे पव्वे, अट्ठमे पव्वे, दुवालसमे पव्वे, सोलसमे पव्वे, वीसइमे पव्वे, चउवीसइमे पव्वे ३॥
[टी०] अनन्तरोपवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय छ उऊ इत्यादि सूत्रत्रयम्, सुगमं चेदम्, नवरम् उऊ त्ति द्विमासप्रमाणकालविशेष ऋतु:, तत्राषाढ-श्रावणलक्षणा प्रावृट्, एवं शेषा: क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्या: वर्षा-शरद्धेमन्त-शिशिर-वसन्त-ग्रीष्माख्या ऋतव इति । ओमरत्त त्ति अवमा हीना रात्रिरवमरात्रो दिनक्षय: । पव्व त्ति अमावास्या पौर्णमासी वा, तदुपलक्षित: पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौ यत्तृतीयं पर्व आषाढकृष्णपक्षस्तत्र, सप्तमं पद्ध भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षा: सर्वत्र पाणीति, उक्तं च
आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य । फग्गुण-वइसाहेसु य बोद्धव्वा ओमरत्ताउ ॥ [ ]
अइरत्त त्ति अतिरात्रः अधिकदिनं दिनवृद्धिरिति यावत्, चतुर्थं पर्व आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानां शुक्लपक्षा: सर्वत्र पाणीति ।
[सू० ५२५] आभिणिबोधियणाणस्स णं छव्विहे अत्थोग्गहे पन्नत्ते, तंजहासोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे ।
[सू० ५२६] छव्विहे ओहिणाणे पन्नत्ते, तंजहा-आणुगामिते, अणाणुगामिते, वढमाणते, हायमाणते, पडिवाती, अपडिवाती ।
[टी०] अयं चातिरात्रादिकोऽर्थो ज्ञानेनावसीयत इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह- आभीत्यादि, सुगमम्, नवरम् अर्थस्य सामान्यस्य