________________
षष्ठमध्ययनं षट्स्थानकम् ।
५३५ [टी०] कल्पाधिकारे सूत्रद्वयम्- छ कप्पेत्यादि, षट् कल्पस्य कल्पोक्तसाध्वाचारस्य परिमथ्नन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्या:, घातका इत्यर्थः, इह च मन्थो द्विधा- द्रव्यतो भावतश्च, यत आहदव्वम्मि मंथओ खलु तेणामंथिजए जहा दहियं । दहितुल्लो खलु कप्पो मंथिजइ कुक्कुयाईहिं ॥ [बृहत्कल्प० ६३१६] ति ।
तत्र कुक्कुइए त्ति कुच अवस्यन्दन [ ] इति वचनात् कुत्सितम् अप्रत्युपेक्षितत्वादिना कुचितम् अवस्यन्दितं यस्य स कुकुचितः, स एव कौकुचितः, कुकुचा वा अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधास्थान-शरीर-भाषाभिः । ___ तत्र स्थानतो यो यन्त्रकवत् नर्तिकावद्वा भ्राम्यतीति, शरीरतो य: करादिभिः पाषाणादीन् क्षिपति, उक्तं च
करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥ [बृहत्कल्प० ६३२३] ति, भाषातो य: सेण्टित-मुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति ।
अयं च त्रिविधोऽपि संयमस्य पृथिव्यादिरक्षणादे: कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, मोहरिए त्ति मुखम् अतिभाषणातिशायनवदस्तीति मुखरः, स एव मौखरिको बहुभाषी, स च सत्यवचनस्य मृषावादविरते: परिमन्थुः, मौखर्ये सति मृषावादसम्भवादिति २,
चक्खुलोल त्ति चक्षुषा लोल: चञ्चलः चक्षुर्वा लोलं चञ्चलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथादीनामुपलक्षणम्, आह च
आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं ।। परियट्टणाणुपेहण ण पेह पंथं अणुवउत्तो ॥ [बृहत्कल्प० ६३३०] इति,
इरियावहिय त्ति ईर्या गमनं तस्याः पन्था मार्ग ईर्यापथस्तत्र भवा या समितिरीर्यासमितिलक्षणा सा ईर्यापथिकी, तस्या: परिमन्थुरिति ३ ।
तितिणिए त्ति तितिणिकोऽलाभे सति खेदाद् यत्किञ्चनाभिधायी, स च