________________
५३६ खेदप्रधानत्वादेषणा उद्गमादिदोषविमुक्तभक्त-पानादिगवेषण-ग्रहणलक्षणा तत्प्रधानो यो गोचरो गोरिव मध्यस्थतया भिक्षार्थं चरणं स एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भाव: ४ ।
इच्छालोभिए त्ति इच्छा अभिलाष: स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, स यस्यास्ति स इच्छालोभिको महेच्छोऽधिकोपधिरित्यर्थः, उक्तं च- इच्छालोभो उ उवहिमइरेगाबृहत्कल्प० ६३३त्ति, स मुक्तिमार्गस्येति मुक्तिः निष्परिग्रहत्वमलोभत्वमित्यर्थः, सैव मार्ग इव मार्गो निर्वृतिपुरस्येति ५, भिज त्ति लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्त्तध्यानरूपत्वात्, भिध्याग्रहणाद् यत् पुनरलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवदुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह-सव्वत्थेत्यादि, सर्वत्र तीर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ भगवता जिनेन अनिदानता अप्रार्थनमेव पसत्थ त्ति प्रशंसिता श्लाघितेति, तथा च
इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्थं तु ॥ [बृहत्कल्प० ६३३४] एवमेव हि सामायिकशुद्धि: स्यादिति, उक्तं चपडिसिद्धेसु वि दोसे विहिएसु य ईसि रागभावे वि । सामाइयं असुद्धं सुद्धं समयाए दोण्हं पि ॥ [योगशतक १७ ] त्ति । अयं चान्तिमपरिमन्थयोर्विशेष:आहारोवहिदेहेसु इच्छालोभो उ सज्जई । नियाणकारी संगं तु कुरुते उद्धदेहिकं ॥ [ ] पारलौकिकमित्यर्थः ॥
कप्पट्टिई इत्यादि, कल्पस्य कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादे: स्थिति: मर्यादा कल्पस्थितिः । तत्र सामायिककल्पस्थिति:सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजिढे य ३ । कीकम्मस्स य करणे ४ चत्तारि अवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६१]