________________
४७३
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । कम्माई नूण घणचिक्कणाइं गरुयाई वजसाराइं । नाणड्डयं पि पुरिसं पंथाओ उप्पहं नेति ॥ [ ] इति चतुर्थम् । तथा मित्र-ज्ञातिगणो वा सुहृत्-स्वजनवर्गो वा से तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक्रामेदतस्तेषां सुहृत्-स्वजनानां सङ्ग्रहाद्यर्थं गणादपक्रमणं प्रज्ञप्तम्, तत्र सङ्ग्रहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् ।
[सू० ४४०] पंचविहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा- अरहंता, चक्कवट्टी, बलदेवा, वासुदेवा, भावियप्पाणो अणगारा ।
॥ पंचट्ठाणस्स बिइओ ॥ [टी०] अनन्तरमाचार्यस्य गणापक्रमणमुक्तम्, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह-पंचविहेत्यादि कण्ठ्यम्, नवरम् ऋद्धिः आमर्पोषध्यादिका सम्पत्, तद्यथा- आमर्षोंषधिर्वि डोषधिः खेलौषधिर्जल्लौषधिल्लो मलः सर्वौषधिः आसीविषत्वं शापा-ऽनुग्रहसामर्थ्यमित्यर्थः, आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षीराश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं युगपत्सर्वशब्दश्रावितेत्यर्थः, पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानम् अर्हत्ता गणधरता चक्रवर्त्तिता बलदेवता वासुदेवता चेत्येवमादिका । __तदेवंरूपा प्रचुरा प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः, भावितः सद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षोषध्यादिभिरर्हदादीनां तु चतुर्णां यथासम्भवमामर्षोषध्यादिनाऽर्हत्त्वादिना चेति ।
॥ इति पञ्चस्थानकस्य द्वितीयोद्देशकः समाप्तः ।।
[अथ तृतीय उद्देशकः] [सू० ४४१] पंच अत्थिकाया पन्नत्ता, तंजहा- धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए । धम्मत्थिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासते अवट्ठिते