________________
४७२
[सू० ४३९] पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पन्नत्ते, तंजहा- आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्मं पउंजित्ता भवति २, आयरियउवज्झाए गणंसि जे सुयपज्जवजाते धारेति ते काले काले नो सम्ममणुपवादेत्ता भवति ३, आयरियउवज्झाए गणंसि सगणिताते वा परगणियाते वा निग्गंथीते बहिल्लेसे भवति ४, मित्ते णातिगणे वा से गणातो अवक्कमेजा तेसिं संगहोवग्गहट्ठयाते गणावक्कमणे पन्नत्ते ५।
[टी०] आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह- पंचहीत्यादि सुगमम्, नवरम् आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छात् अपक्रमणं निर्गमो गणापक्रमणम् । आचार्योपाध्यायोगणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वाऽविधेयेषु निवर्तनलक्षणाम्, नोनैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलोभवति, इदमुक्तं भवति- दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालकाचार्यवदित्येकम् ।
तथा गणविषये यथारत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं विनयं नो नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात्, यतः आचार्येणापि प्रतिक्रमण-क्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् ।
तथा असौ यानि श्रुतपर्यवजातानि यान् श्रुतपर्यायप्रकारानुद्देशका-ऽध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता तेषां पाठयिता भवति, गणे त्ति इह सम्बध्यते, तेन गणे गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम्।
तथा असौ गणे वर्तमानः सगणियाए त्ति स्वगणसम्बन्धिन्यां परगणियाए त्ति परगणसत्कायां निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याद् बहिर्लेश्या अन्तःकरणं यस्यासौ बहिर्लेश्यः आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यम्, यतः पठ्यते