________________
४७१
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । इह च भावार्थ एवम्- आचार्यो नोत्सर्गतो विचारभूमिं गच्छति दोषसम्भवात्, तथाहि- श्रुतवानयमित्यादिगुणत: पूर्वं वीथिषु वणिजो बहुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृद् द्विर्वाऽऽचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, एतच्चेतरे दृष्ट्वा शङ्कन्ते यदुतायमिदानीं पतितो वणिजानामभ्युत्थानाधकरणादित्येवं मिथ्यात्वगमनादयो दोषाः । तथा मत्सरिभ्य: सकाशान्मरण-बन्धना-ऽपभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः ।।
तथा प्रभुः समर्थः, इच्छा अभिलाषो वैयावृत्यकरणे यदि भवेत्तदा वैयावृत्यं भक्तपानगवेषण-ग्रहणत: साधुभ्यो दानलक्षणं कुर्यात्, अथेच्छा अभिलाषस्तदकरणे तन्न कुर्यादिति, भावार्थस्त्वयम्- आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि
उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥ [व्यवहारभा० २५७१] दोषास्त्वमीभारेण वेदणा वा हिंडते उच्चनीयसासो वा । [बृहत्कल्प० २५७४]
आइयणछड्डणाई प्रचुरपानकादेरापानादौ छादयो गेलने पोरिसीभंगो ॥ [व्यवहारभा० २५७६] इति, एवमादयोऽनेके दोषा व्यवहारभाष्योक्ता: समवसेया: । एते च सामान्यसाधोरपि प्राय: समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च
जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबम्मि विणढे अरया साहारया होंति ॥ [ ] त्ति तृतीयः । तथा अन्तरुपाश्रयस्य एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्यो: समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः एवं पञ्चमोऽपि भावार्थश्चायमनयो:अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते पुंवेदोपयोगेन, जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लङ्घितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, अत्र वृत्तौ ज्ञेया।