________________
४७०
णातिक्कमति ५।
[टी०] अनन्तरं येषु स्थानेषु वर्त्तमानो निर्ग्रन्थो धर्मं नातिक्रामति तान्युक्तानि, अधुना तद्विशेष आचार्यो येष्वतिशयेषु वर्त्तमानस्तं नातिक्रामति तानाह - आयरिएत्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादुपाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनाम्, गणे साधुसमुदाये वर्त्तमानस्य वर्त्तमानयोर्वा गणविषये वा शेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चातिशेषाः अतिशयाः प्रज्ञप्ताः, तद्यथा - आचार्योपाध्यायोऽन्तः मध्ये उपाश्रयस्य वसते: पादौ निगृह्य निगृह्य पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न भ्रियन्ते तथेत्यर्थः, प्रस्फोटयन् वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन्, झाटयन्नित्यर्थः, प्रमार्जयन् वा शनैर्लूषयन् नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः - आचार्य: कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिक भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्ष्टि चेत्येकः, न प्रत्युपेक्षते प्रमार्ष्टति द्वितीय:, प्रत्युपेक्षते न प्रमाति तृतीय:, प्रत्युपेक्षते प्रमार्ष्टि चेति चतुर्थः, यत्तत्प्रत्युपेक्ष्यते प्रमार्ण्यते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ५ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, शेषं वृत्तौ ।
शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति, न च दोषाः स्युः, जितश्रमत्वाद्, आह चदसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो ॥
सीउण्हसहा भिक्खू ण य हाणी वायणाईया । [ व्यवहारभा० २५३९-४०] इत्येकोऽतिशयः ।
तथाऽन्तः मध्ये उपाश्रयस्य उच्चारं पुरीषं प्रश्रवणं मूत्रं विञ्चन् सर्वं परिष्ठापयन् विशोधयन् पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनम्, नातिक्रामति ।