________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
४६९ आगन्तुकप्रतनुद्रवरूपे कम एव ओल्यां वा, अपकसन्तीं पङ्क-पनकयो: परिह्रसन्तीम् अपोह्यमानां वा सेके उदके वा नीयमानां गृह्णन्नातिक्रामतीति, तृतीयम्। ___ तथा नावम् आरुहमाणे त्ति आरोहयन् ओरुहमाणे त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथा क्षिप्तं नष्टं राग-भया-ऽपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां वा, तथा दृप्तं सन्मानात् दर्पवच्चित्तं यस्याः सा दृप्तचित्ता, तां वा, यक्षेण देवेन आविष्टा अधिष्ठिता यक्षाविष्टा, तां वा, अत्रोक्तम्पुव्वभववेरिएणं अहवा रागेण रागिया संती । एएहिं जक्खइट्टा बृहत्कल्प० ६२५८] त्ति। उन्मादम् उन्मत्ततां प्राप्ता उन्मादप्राप्ता, तां वा, अत्राप्युक्तम्उम्माओ खलु दुविहो जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ रूवंगं द₹णं उम्माओ अहव पित्तमुच्छाए । [बृहत्कल्प० ६२६३-६४] त्ति ।
उपसर्गम् उपद्रवं प्राप्ता उपसर्गप्राप्ता, तां वा, [सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता, तां वा, सह प्रायश्चित्तेन सप्रायश्चित्ता, तां वा,] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा, गाथा
अटुं वा हेडं वा समणीणं विरहिए कहिंतस्स । मुच्छाए विवडियाए कप्पइ गहणं परिन्नाए ॥ [बृहत्कल्प० ६२८२] इति । [तथा अर्थ: कार्यमुत्प्रव्राजनत: स्वकीयपरिणेत्रादेर्जातो यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा,] त्ति पञ्चममिति ॥
[सू० ४३८] आयरियउवज्झायस्स णं गणंसि पंच अतिसेसा पन्नत्ता, तंजहा- आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय निगिज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति १, आयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहमाणे वा णातिक्कमति २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा ३, आयरियउवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा वसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे