________________
नवममध्ययनं नवस्थानकम् ।
६७१
रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, जाव त्ति करणात् निव्वत्ते असुइजायकम्मकरणे संपत्ते त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः, पाठान्तरत: निवत्ते वा निवृत्ते उपरते अशुचीनाम् अमेध्यानां जातकर्मणां प्रसवव्यापाराणां करणे विधाने, सम्प्राप्ते आगते बारसाहदिवसे त्ति द्वादशानां पूरणो द्वादश: स एवाख्या यस्य स द्वादशाख्य: स चासौ दिवसश्चेति विग्रह:, अयं ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नम् एयारूवं ति एतदेव रूपं स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत् ? नामधेयं प्रशस्तं नाम, किंविधम् ? गौणं न पारिभाषिकम्, गौणमित्यमुख्यमपि स्यादित्याहगुणनिप्फन्नति गुणानाश्रित्य पद्मवर्षादीन् निष्पन्नं गुणनिष्पन्नमित्यक्षरघटना, महापउमे महापउमे त्ति तत्पित्रो: पर्यालोचनाभिलापानुकरणम् । तए णं ति पर्यालोचनानन्तरं महापउम इति महापद्म इत्येवंरूपम् ।।
साइरेगट्ठवासजायगं ति सातिरेकाणि साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा, तम् । रायवन्नओ त्ति राजवर्णको वक्तव्य:, स चायम्- महया हिमवंतमहंतमलय-मंदर-महिंदसारे इत्यादि सर्व औपपातिकादिग्रन्थादवसेयः।
दो देवा महिड्डिया इत्यत्र यावत्करणात् महज्जुइया महाणुभागा महायसा महाबलेति दृश्यम्, सेणाकम्मं ति सेनायाः सैन्यस्य कर्म व्यापार: शत्रुसाधनलक्षण: सेनाविषयं वा कर्म इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च उत्तरयक्षनिकायेन्द्रः । बहवे राईसरेत्यादि, राजा महामाण्डलिकः, ईश्वरो युवराजो माण्डलिकोऽमात्यो वा, अन्ये तु व्याचक्षते- अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितः, माडम्बिकः छिन्नमडम्बाधिप:, कौटुम्बिकः कतिपयकुटुम्बप्रभुः, इभ्य: अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्, सेनापति: नृपतिनिरूपितो हस्त्यश्व-रथ-पदातिसमुदायलक्षणाया: सेनाया: प्रभुरित्यर्थः, सार्थवाहकः सार्थनायकः, एतेषां द्वन्द्वः, ततश्च राजादय: प्रभृति: आदिर्येषां ते तथा । देवसेणे त्ति देवावेव सेना यस्य देवाधिष्ठिता वा सेना यस्य स देवसेन इति, देवसेणातीति देवसेन इत्येवंरूपम्।