________________
६७२
सेतेत्यादि, श्रेयान् अतिप्रशस्यः श्वेतो वा कीदृगित्याह- शङ्खतलेन कम्बुरूपेण विमलेन पङ्कादिरहितेन सन्निकाशः सङ्काशः सदृशो यः स शङ्खतलविमलसन्निकाश:, दुरूढे त्ति आरूढः समाणे त्ति सन् अतियास्यति प्रवेक्ष्यति निर्यास्यति निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र ।
गुरुमयहरएहिं ति गुर्वोः मातापित्रोर्महत्तराः पूज्याः । पुणरवित्ति महत्तरा - भ्यनुज्ञानानन्तरं लोकान्ते लोकाग्रलक्षणे सिद्धस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनः, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति । जीतकल्प: आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः, आचरितमेव तेषामिदम्, न तु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति । ताहिं ति ताभिर्विवक्षिताभिः वग्गूहिं ति वाग्भिर्यकाभिरानन्द उत्पद्यत इति भाव:, इष्टाभिः इष्यन्ते स्म या:, कान्ताभिः कमनीयाभिः, प्रियाभि: प्रेमोत्पादिकाभि:, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते - मनोज्ञाभि: शुभस्वरूपाभि:, मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- मणामाहिं ति मनः अमन्ति गच्छन्ति यास्ताः तथा, ताभिः, उदारेण उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः, कल्यम् आरोग्यम् अणन्ति शब्दयन्तीति कल्याणाः, ताभिः, शिवस्य उपद्रवाभावस्य सूचकत्वाच्छिवाभि:, धनं लभन्ते धने वा साध्व्यो धन्याः, ताभिः, मङ्गले दुरितक्षये साध्व्यो मङ्गल्याः, ताभिः, सह श्रिया वचनार्थशोभया यास्ताः सश्रीकाः, ताभि:, वाग्भिरिति सम्बन्धितम्, अभिनन्द्यमानः समुल्लास्यमानः, बहिय त्ति नगराद् बहिस्तादिति ।
इतो वाचनान्तरमनुसृत्य लिख्यते - साइरेगाई ति अर्द्धसप्तमैर्मासैर्द्वादश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्म्मवर्जनतः, त्यक्ते देहे परीषहादिसहनतः, तथा सक्ष्य उत्पत्स्यमानेषूपसर्गेषु भयाभावतः, क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः, तितिक्षिष्यति दैन्याभावतः, अध्यासिष्यते अविचलतयेति, जाव गुत्ते त्ति करणादिदं दृश्यम्एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए इत्यादि, तथा अममे अविद्यमान