SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६७३ 'ममे'त्यभिलापो निरनुषङ्गत्वात्, अकिंचणे नास्ति किञ्चनं द्रव्यं यस्य स तथा, छिन्नगंथे छिन्नो ग्रन्थो धन-धान्यादिस्तत्प्रतिबन्धो वा येन स तथा, निरुवलेवे द्रव्यतो निर्मलदेहत्वात् भावतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते- कंसपातीव मुक्कतोये [कांस्यपात्रीव कांस्यभाजनविशेष इव मुक्तं त्यक्तं न लग्नमित्यर्थः, तोयमिव बन्धहेतुत्वात्तोयं स्नेहो येन स मुक्ततोय:,] यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भाव:, किय रं यावदित्याह- जाव सुहुयेत्यादि। ___अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाह- कंसे गाहा, कुंजर गाहा, कंसे त्ति कंसपाईव मुक्कतोये, संखे त्ति संखे इव निरङ्गणे इत्यादि विस्तरो वृत्तौ। नत्थीत्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः स्नेहो भविष्यतीति, अंडए इ व त्ति अण्डजो हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्ध: स्यादिति, अथवाऽण्डजं पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात्, अथवा पोतको बालक इति वा, अथवा पोतकं वस्त्रमिति वा प्रतिबन्ध: स्यात्, आहारेऽपि च विशुद्ध सरागसंयमवत: प्रतिबन्ध: स्यादिति दर्शयति- उग्गहिए इ व त्ति अवगृहीतं परिवेषणार्थमुत्पाटितं प्रगृहीतं भोजनार्थमुत्पाटितमिति । जनं ति यां यां दिशं णमिति वाक्यालङ्कारे नुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्तुमिति शेष:, तां तां दिशं स विहरिष्यतीति सम्बन्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन वा अणुप्पग्गंथे त्ति अनुरूपतया औचित्येन विरतेन त्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थ: अपेर्तृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा, अथवा अणुप्प त्ति अनर्ग्य: अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति । भावेमाणे त्ति वासयन्नित्यर्थः । अणुत्तरेणं ति नास्त्युत्तरं प्रधानमस्मादित्यनुत्तरं तेन, एवमिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, आलयेन वसत्या विहारेणैकरात्रादिना,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy