________________
७३०
पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकम्, आघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः, प्रज्ञापयति सामान्यत:, प्ररूपयति प्रतिसूत्रमर्थकथनेन, दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, दिंसेइ त्ति कथञ्चिदगृह्णत: परानुकम्पया निश्चयेन पुन: पुनदर्शयति निदर्शयति, उवदंसेइ त्ति सकलनययुक्तिभिरिति ३, चाउव्वण्णाइण्णे त्ति चत्वारो वर्णाः श्रमणादय: समाहृता इति चतुर्वर्णम्, तदेव चातुर्वर्ण्यम्, तेनाकीर्ण: आकुलश्चातुर्वर्णाकीर्णः, चउव्विहे देवे पन्नवेइ त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति जीवाजीवादीन् पदार्थान् बोधयति सम्यक्त्वं ग्राहयति शिष्यीकरोतीति यावत्, लोकेभ्यो वा तान् प्रकाशयति । अणंते इत्यादौ सूत्रे यावत्करणात् निव्वाघाए निरावरणे [कसिणे पडिपुण्णे केवलवरनाणदंसणे त्ति] दृश्यमिति । सदेवेत्यादि, सह देवै: वैमानिक-ज्योतिष्कैर्मनुजैः नरैरसुरैश्च भवनपति-व्यन्तरैर्वर्तत इति सदेवमनुजासुरस्तत्र लोके त्रिलोकरूपे उराल त्ति प्रधाना:, कीर्तिः सर्वदिग्व्यापी साधुवादः, वर्ण एकदिग्व्यापी, शब्दः अर्द्धदिग्व्यापी, श्लोकः तत्तत्स्थान एव श्लाघा, एषां द्वन्द्वः, तत एते परिगुवंति परिगुप्यन्ति व्याकुला भवन्ति सततं भ्रमन्तीत्यर्थः, कथमित्याह- इति खल्वित्यादि, इति: एवंप्रकारार्थः, खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनर-नाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्व-ख्यापनार्थं चेति, आघवेईत्यादि पूर्ववत् ।
[सू० ७५१] दसविधे सरागसम्मइंसणे पन्नत्ते, तंजहानिसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव । अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती ॥१६७॥ [टी०] स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाहदसविहेत्यादि, सरागस्य अनुपशान्ताक्षीणमोहस्य यत् सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा, तद्दशधाह निसग्ग गाहा, रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्ग: स्वभावस्तेन रुचि: तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचि, यो हि जातिस्मरण-प्रतिभादिरूपया