________________
दशममध्ययनं दशस्थानकम् ।
७२९
कदर्थितः स्वामी देशोनांश्चतुरो यामान् प्रभातसमये मुहूर्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थः, अथवा छद्मस्थकाले भवा अवस्था छाद्मस्थकालिकी तस्याम् अंतिमराइयंसि त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासौ रात्रिका चान्तिमरात्रिका तस्याम्, रात्रेरवसान इत्यर्थः, महान्तः प्रशस्ता: स्वप्ना निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते ते चेति महास्वप्नास्तान् ।। __ स्वप्ने स्वापक्रियायाम्, एगं च त्ति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः, महाघोरम् अतिरौद्र रूपम् आकारं दीप्तं ज्वलितं दप्तं वा दर्पवद्धारयतीति महाघोररूपदीप्तधरो तालो वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधात् पिशाचो राक्षसस्तालपिशाचस्तम्, पराजितं निराकृतमात्मना १, एगं च त्ति अन्यं च पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्च परपुष्टः पुंस्कोकिलकः, स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषित: २, चित्तविचित्तपक्खं ति चित्रेणेव चित्रकर्मणा विचित्रौ विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा ३, दामदुगं ति मालाद्वयम् ४, गोवग्गं ति गोरूपाणि ५, पउमसरं ति पद्मानि यत्रोत्पद्यन्ते सरसि तत् पद्मसर: सर्वतः सर्वासु दिक्षु समन्तात् विदिक्षु च कुसुमानि पद्मलक्षणानि जातानि यत्र तत् कुसुमितम् ६, उम्मीवीचिसहस्सकलियं ति ऊर्मय: कल्लोला:, तल्लक्षणा या वीचयस्ता ऊर्मिवीचय: ७, तथा दिनकरम् ८, एकेन च, णमित्यलङ्कारे महं ति महता छान्दसत्वात, हरिवेरुलियवन्नाभेणं ति हरिः पिङ्गो वर्ण: वैडूर्यं मणिविशेषस्तस्य वर्णो नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभम्, तेन, निजकेन आत्मीयेनाऽन्त्रेण उदरमध्यावयवविशेषेण, आवेढियं ति सकृदावेष्टितम्, परिवेढियं ति असकृदिति ९, एगं च णं महं ति आत्मनो विशेषणं सिंहासणवरगयं ति सिंहासनानां मध्ये यद्वरं तत् सिंहासनवरम्, तत्र गतो व्यवस्थितो यस्तमिति १०।
एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- जन्नमित्यादि सुगमम्, नवरं मूलओ त्ति आदित:, सर्वथैवेत्यर्थः, उग्घाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि । ससमयपरसमइयं ति स्वसिद्धान्त-परसिद्धान्तौ यत्र स्त इत्यर्थः, गणिन: आचार्यस्य