________________
दशममध्ययनं दशस्थानकम् ।
७३१ स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः । तथोपदेशो गुदिना कथनम्, तेन रुचिर्यस्येत्युपदेशरुचिः, तत्पुरुषपक्ष: स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनर्थान् तीर्थकर-तच्छिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः । तथाऽऽज्ञा सर्वज्ञवचनात्मिका, तया रुचिर्यस्य स तथा, यो हि प्रतनुराग-द्वेष-मिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः । सुत्तबीयरुईमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तेनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः । तथा बीजमिव बीजम्, यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य टेकेनापि जीवादिना पदेनावगतेनाऽनेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भाव: ।
एवेति समुच्चये । तथा अभिगम-वित्थाररुइ त्ति, इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीय:, तत्राऽभिगमो ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र
सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिढें । एक्कारस अंगाई पइन्नयं दिट्ठिवाओ य ॥ [उत्तरा० २८।२३] त्ति ।
तथा विस्तारो व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नय-प्रमाणैर्शाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति । तथा क्रिया अनुष्ठानम्, रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवति- दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स क्रियारुचिरिति । तथा सक्षेपः सङ्ग्रहस्तत्र रुचिरस्येति सङ्क्षेपरुचि:, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सक्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सक्षेपरुचिरिति भावः । तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्मं चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः ।