________________
दशममध्ययनं दशस्थानकम् ।
७१९
माहणं वा [स्थानाङ्ग० १३३] इति सूत्रे माशब्दो निषेधे, अथवा जेणामेव समणे भगवं महावीरे तेणामेव [ ] इत्यत्र सूत्रे जेणामेव इह मकार आगमिक एव येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, पिंकारे त्ति अकारलोपदर्शनेनानुस्वारागमेन च अपिशब्द उक्तः, तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेषु ]इति, तत्र एवं पि एगे आसासे [स्थानाङ्ग० ३१४] इत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, सेयंकारे त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति, तदनुयोगो यथा से भिक्खू वा [ दशवै० ४।१०] इत्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु[ ] इत्यानन्तर्यार्थः, [ इत्यादि ] ४, सायंकारे त्ति सायमिति निपातः सत्यार्थस्तस्माद् 'वर्णात् कारः' इत्यनेन छान्दसत्वात् कारप्रत्ययः करणं वा कारस्ततः सायंकार इति, तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेषु[ ]इति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, गत्ते त्ति एकत्वमेकवचनं तदनुयोगो यथा सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः [ तत्त्वार्थ० १।१] इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थम्, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, पुहत् पृथक्त्वं भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा [ प्रज्ञापना० १५] इह सूत्रे धर्मास्तिकायप्रदेशा इत्येतद् बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, संजू ति सङ्गतं युक्तार्थं यूथं पदानां पदयोर्वा समूहः संयूथम्, समास इत्यर्थः, तदनुयोगो यथा सम्यग्दर्शनशुद्धम् [तत्त्वार्थका १] सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा ८, संकामियं ति सङ्क्रामितं विभक्तिवचनादि विभक्ति-वचनाद्यन्तरतया परिणामितं तदनुयोगो यथा साहूणं वंदणेणं नासति पावं असंकिया भावा [ ] इह साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वा अशङ्किता भाव भवन्तीत्येतत् पदं सम्बन्धनीयम्, तथा अच्छंदा जे न भुंजति न चाई ति वच्च । [दशवै० २।२] इत्यत्र सूत्रे न स त्यागी इति उच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, भिन्नमिति क्रम - कालभेदादिभिर्भिन्नं