________________
७२०
विसदृशं तदनुयोगो यथा-तिविहं तिविहेणमिति सङ्ग्रहमुक्त्वा पुन: मणेणमित्यादिना तिविहेणं ति विवृतमिति क्रमभिन्नम्, क्रमेण हि तिविहमित्येतन्न करोमीत्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथा क्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः, तथा हि न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत् प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि- मन:प्रभृतिभिर्न करोमि तैरेव न कारयामि नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनमाश्रित्य सक्के देविंदे देवराया वंदइ नमसइ [जम्बूद्वीप० २।३५] त्ति सूत्रे, तदनुयोगश्चायं वर्तमाननिर्देश-स्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयम्, गम्भीरत्वादस्येति । [सू० ७४५] दसविहे दाणे पण्णत्ते, तंजहाअणुकंपा संगहे चेव, भया कालुणिते ति त । लजाते गारवेणं च, अहम्मे उण सत्तमे ।। धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त ॥१६३॥
दसविधा गती पन्नत्ता, तंजहा-निरयगती, निरयविग्गहगती, तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, सिद्धिविग्गहगती ।
[टी०] वागनुयोगतस्त्वर्थानुयोग: प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाहदसेत्यादि, अणुकंपेत्यादि श्लोक: सार्द्धः, अनुकंप त्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादै:
कृपणेऽनाथ-दरिद्रे व्यसनप्राप्ते च रोग-शोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥ [ ] १ ।
सङ्ग्रहणं सङ्ग्रहः व्यसनादौ सहायकरणम्, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च