________________
दशममध्ययनं दशस्थानकम् ।
७२१
अभ्युदये व्यसने वा यत् किञ्चिद्दीयते सहायार्थम् । तत् सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ [ ] इति २ । तथा भयात् यद्दानं तत् भयदानम्, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद् इति, उक्तं च– राजा-ऽऽरक्ष-पुरोहित-मधुमुख-माचल्ल-दण्डपाशिषु च।।
यद्दीयते भयार्थात्तद् भयदानं बुधैर्जेयम् ॥ [ ] इति ३ । कालुणिए इ य त्ति कारुण्यं शोकः, तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादे: स जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य भोज्यस्य वा यद्दानं तत् कारुण्यदानम्, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४ ।
तथा लज्जया हिया दानं यत्तल्लज्जादानमुच्यते, उक्तं चअभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगत: । परचित्तरक्षणार्थं लजायास्तद्भवेद्दानम् ॥ [ ] इति ५ । गारवेणं च त्ति गौरवेण गर्वेण यद्दीयते तद् गौरवदानमिति, उक्तं चनट-नर्त-मुष्टिकेभ्यो दानं सम्बन्धि-बन्धु-मित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ॥ [ ] ६ । अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं चहिंसा-ऽनृत-चौर्योद्यत-परदार-परिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥ [ ] इति ७ । धर्मकारणं यत्तद्धर्मदानं धर्म एव वा, उक्तं चसमतृण-मणि-मुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद्दानं भवति धर्माय ॥ [ ] इति ८ ।
काही इ य त्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत् करिष्यतीति दानमुच्यते ९। तथा कृतं ममानेन तत् प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत् कृतमिति, उक्तं चशतश: कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम् ॥ [ ] इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह-दसेत्यादि,