________________
७२२ निरयगति त्ति निर्गता अयात् शुभादिति निरया नारकाः, तेषां गतिर्गम्यमानत्वान्नरकः, तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षण: पर्यायविशेषो वेति निरयगतिः, तथा निरयाणां नारकाणां विग्रहान् क्षेत्रविभागानतिक्रम्य गति: गमनं निरयविग्रहगति: स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिकापाद्या वेति, एवं तिर्यङ्-नरनाकिनामपीति, सिद्धिगइ त्ति सिध्यन्ति निष्ठितार्था भवन्ति यस्यां सा सिद्धिः, सा चासौ गम्यमानत्वाद् गतिश्चेति सिद्धिगति: लोकाग्रलक्षणा, तथा सिद्धविग्गहगइ त्ति सिद्धस्य मुक्तस्य विग्रहस्य आकाशविभागस्यातिक्रमणे गति: लोकान्तप्राप्ति: सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निर्विशेषणतया पारिशेष्यात् ऋजुगतिः, सिद्धिगइ त्ति सिद्धौ गमनम्, निर्विशेषणत्वाच्च अनेन सामान्या सिद्धिगतिरुक्ता, सिद्धाऽविग्गहगइ त्ति सिद्धावविग्रहेण अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषणापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति ।
[सू० ७४६] दस मुंडा पन्नत्ता, तंजहा-सोतिंदितमुंडे जाव फासिंदितमुंडे, कोहमुंडे जाव लोभमुंडे, सिरमुंडे ।
[टी०] सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह- दसेत्यादि, मुण्डयति अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमम् । [सू० ७४७] दसविधे संखाणे पन्नत्ते, तंजहापरिकम्मं ववहारो, रज्जू रासी कलासवन्ने य । जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि ॥१६४॥ कप्पो त । [टी०] मुण्डा दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, दसेत्यादि, परिकम्मं गाहा, परिकर्म संकलनाद्यनेकविधं गणितज्ञप्रसिद्धम्, तेन यत् सङ्ख्येयस्य सङ्ख्यानं परिगणनं तदपि परिकम्र्मेत्युच्यते, एवं सर्वत्रेति १, व्यवहारः श्रेणीव्यवहारादि: पाटीगणितप्रसिद्धोऽनेकधा २, रज्जु त्ति, रज्ज्वा यत् सङ्ख्यानं तद्रज्जुरभिधीयते, तच्च