SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ७२३ दशममध्ययनं दशस्थानकम् । क्षेत्रगणितम् ३, रासि त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशि:, स च पाट्यां राशिव्यवहार इति प्रसिद्ध: ४, कलासवन्ने य त्ति कलानाम् अंशानां सवर्णनं सवर्ण: सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् ५, जावंताव इ त्ति जावं ताव त्ति वा गुणकारो त्ति वा एगट्ठ [ ] इति वचनाद् गुणकारस्तेन यत् सङ्ख्यानं तत्तथैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढम्, अथवा यावत: कुतोऽपि तावत एव गुणकाराद् यादृच्छिकादित्यर्थः, यत्र विवक्षितं सङ्कलनादिकमानीयते तद् यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् गच्छो वाञ्छाभ्यस्तो वाञ्छयुतो गच्छसगुण: कार्यः । द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः ॥ [ ] अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ता: जाताऽशीति: ८०, ततो वाञ्छयुतास्ते अष्टाशीति: ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हृते यल्लभ्यते तद् दशानां संकलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, तथा वर्गः संख्यानम्, यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात: [त्रिशती) इति वचनात् ७, घणो यत्ति घन: सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहतिः [त्रिशती] इति वचनात् ८, वग्गवग्गो त्ति वर्गस्य वर्गो वर्गवर्ग:, स च सङ्ख्यानम्, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्ग: षोडशेति, अपिशब्द: समुच्चये ९, कप्पो यत्ति गाथाधिकम्, तत्र कल्प: छेदः, क्रकचेन काष्ठस्य, तद्विषयं सङ्ख्यानं कल्प एव यत् पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । [सू० ७४८] दसविधे पच्चक्खाणे पण्णत्ते, तंजहाअणागतमतिकंतं, कोडीसहितं नियंटितं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । सएयगं चेव अद्धाए, पच्चक्खाणं दसविहं तु ॥१६५॥ [टी०] दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy