________________
७१८
दिग्-देश-काला-ऽऽकाश-पुरुष-चक्रादि, अथवोपादानकारणं मृदादि, निमित्तकारणं कुलालादि, सहकारिकारणं चक्र-चीवरादीत्यनेकधा कारणम्, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति,] चः समुच्चये ५, तथा प्रत्युत्पन्नो वार्त्तमानिकः अभूतपूर्व इत्यर्थः, दोषः गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः, इत्यादि ६, तथा नित्यो यो दोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषः, अथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बाल-कुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा हिअट्ठमे त्ति अकारप्रश्लेषादधिकं वादकाले यत् परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्त-निगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादित्यादि ८, अत्तण त्ति आत्मना कृतमिति शेषः, तथा उपनीतं प्रापितं परेणेति शेषः. वस्तुसामान्या-पेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः ९, चकारयोविशेष-शब्दस्य च प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु निव्वे हिअट्ठमे त्ति दृष्टम्, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातम् ।
इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा- अहिंसा संजमो तवो [दशवै० १।१] इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनम्, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह वचनानुयोगं भेदत आहदसेत्यादि, शुद्धा अनपेक्षितवाक्यार्था या वाक् वचनं सूत्रमित्यर्थः तस्या अनुयोगो विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र चंकारे त्ति अत्रानुस्वारोऽलाक्षणिको, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगसमुच्चया-ऽन्वाचया-ऽवधारण-पादपूरणा-ऽधिकवचनादिषु [ ] इति, तत्र इत्थीओ सयणाणि य [दशवै० २।२] इति, इह सूत्रे चकारः समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यत्वप्रतिपादनार्थः १, मंकारे त्ति मामा]कारानुयोगो यथा समणं व