________________
७१७
दशममध्ययनं दशस्थानकम् । चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तः, तद्दोषः साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति । कारणदोषः साध्यं प्रति तद्व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादित्यादि वृत्तौ ७ । [तथा सङ्क्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः, तदेव दोष इति ८। तथा निग्रहः छलादिना पराजयस्थानम्, स एव दोषो निग्रहदोष इति ९। तथा वसतः साध्यधर्म-साधनधावत्रेति वस्तु प्रकरणात् पक्षस्तस्य दोषः प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति १० । __एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह- दसेत्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्, वत्थु इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः, तज्जातमिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि, तद्विषयो दोषो वस्तु-तज्जातदोषः, तत्र वस्तुदोष: पक्षदोषस्तजातदोषश्च जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, इत्यादिरनेकविधः १-२, चकारः समुच्चये,] तथा दोसे त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयो दोषा अष्टावुक्तास्ते दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः, अथवा दोसे त्ति दोषेषु शेषदोषविषये विशेषो भेदः, स चानेकविधः स्वयमूह्यः ३, एगट्ठिए इय त्ति एकश्चासावर्थश्च अभिधेयः एकार्थः, स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः उपप्रदर्शने, चः समुच्चये, स च शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थिको यथा गौः, यथोक्तम्
दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ ऽशौ ८ पशौ ९ च गोशब्दः इत्यादि [इति चायमपि च दोषः सामान्यापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोक्तः, दशस्थानकानुवृत्तेः, अथवा कारणे कारणविषये विशेषो भेदो यथा परिणामिकारणं मृत्पिण्डः, अपेक्षाकारणं