________________
अत्तणा उवणीते त, विसेसे तित ते दस ॥ १६२ || २ | दसविधे सुद्धावाताणुओगे पन्नत्ते, तंजहा- चंकारे, मंकारे, पिंकारे, सेतंकारे, सातंकारे, एगत्ते, पुधत्ते, संजूहे, संकामिते, भन्ने ३।
[टी०] अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोषप्रस्तावाद्दोषविशेषनिरूपणायाहदसविहेत्यादि । तज्जायेत्यादि वृत्तम्, एते हि गुरु-शिष्ययोर्वादि-प्रतिवादिनोर्वा वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जातं जातिः प्रकारो वा जन्म-मर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमिति कृत्वा दोषस्तज्जातदोष:, तथाविधकुलादिना दूषणमित्यर्थः १ । तथा स्वस्यैव मतेः बुद्धेर्भङ्गो विनाशो मतिभङ्गो विस्मृत्यादिलक्षणो दोषो मतिभङ्गदोषः २ । तथा प्रशास्ता अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोष:, इह त्थाशब्दो लघुश्रुतिरिति ३। तथा परिहरणम् आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य, तदेव दोषः परिहरणदोषः, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदित्यादि ४ । तथा लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम्, स्वं च तल्लक्षणं च स्वलक्षणम्, यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् ५। तथा करो कारणं परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्म्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात् ६ । तथा हिनोति गमयतीति हेतुः साध्यसद्भावभाव-तदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारण- - हेतुदोष:, इह काशब्दः छन्दोऽर्थं द्विर्बद्धो ध्येयः, अथवा सह लक्षणेन यौ - हेतू तयोर्दोष इति विग्रहः, तत्र लक्षणदोषोऽव्याप्तिरतिव्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधाना-ऽसन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणमिति, इदं स्वलक्षणलक्षणम्, इदं चेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानम्, योगिज्ञाने हि न सन्निधाना-ऽसन्निधानाभ्यां प्रतिभासभेदो -ऽस्तीत्यतस्तदपेक्षया न किञ्चित् स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणम्, इह
कारण