________________
दशममध्ययनं दशस्थानकम् ।
७१५ निर्वाणगमनानुत्तरविमानवक्तव्यताख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगता-ऽनुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राण-भूत-जीव-सत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति ।
[सू० ७४३] दसविधे सत्थे पण्णत्ते, तंजहासत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं ।
दुप्पउत्तो मणो वाया, कायो भावो त अविरती ॥१६०॥ _ [टी०] प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात्, शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह- दसेत्यादि, शस्यते हिंस्यते अनेनेति शस्त्रम् । सत्थं सिलोगो, शस्त्रं हिंसकं वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते- अग्निः अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रम् १, विषं स्थावर-जङ्गमभेदम् २, लवणं प्रतीतम् ३, स्नेहः तैल-घृतादिः ४, क्षारो भस्मादिः ५, अम्लं काञ्जिकम् ६, भावो य त्ति इह द्रष्टव्यम्, तेन भावो भावरूपं शस्त्रम्, किं तदित्याह- दुष्प्रयुक्तम् अकुशलं मनो मानसम् ७, वाग् वचनं दुष्प्रयुक्ता ८, कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात् कायग्रहणेनैव तद्ग्रहणं द्रष्टव्यमिति, अविरतिश्च अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । [सू० ७४४] दसविधे दोसे पन्नत्ते, तंजहातज्जातदोसे मतिभंगदोसे, पसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, संकामणं निग्गह वत्थुदोसे ॥१६१॥ १॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तजातदोसे त, दोसे एगट्टिते ति त । कारणे त पडुप्पन्ने, दोसे निच्चे [5]हिअट्ठमे ॥