________________
अष्टममध्ययनं अष्टस्थानकम् ।
६३३
सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् दृश्यम्, अणुपालिय त्ति आत्मसंयमानुकूलतया पालिता इति ।
[सू० ६४६] अट्ठविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहापढमसमयनेरतिता, अपढमसमयनेरतिता, एवं जाव अपढमसमयदेवा १।
अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा, देवीओ, सिद्धा २॥
अथवा अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा-आभिनिबोधितनाणी जाव केवलनाणी, मतिअण्णाणी, सुतअण्णाणी, विभंगणाणी ३।
[टी०] तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् अट्ठविहेत्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम्, नवरं प्रथमसमयनैरयिका नरकायु:प्रथमसमयोदये, इतरे त्वितरस्मिन्, एवं सर्वेऽपि ।
[सू० ६४७] अट्ठविधे संजमे पन्नत्ते, तंजहा-पढमसमयसुहुमसंपरागसरागसंजमे, अपढमसमयसुहुमसंपरागसरागसंजमे, पढमसमयबादरसंपरागसरागसंजमे, अपढमसमयबादरसंपरागसरागसंजमे, पढमसमयउवसंतकसायवीतरागसंजमे, अपढमसमयउवसंतकसायवीतरागसंजमे, पढमसमयखीणकसायवीतरागसंजमे, अपढमसमयखीणकसायवीतरागसंजमे ।
[टी०] अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीति सम्बन्धात् संयमसूत्रम्, तत्र संयमे त्ति चारित्रम्, स चेह तावद् द्विधा- सराग-वीतरागभेदात्, तत्र सरागो द्विधा- सूक्ष्म-बादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयभेदाद् द्विधा, एवं चतुर्द्धा सरागसंयम इति, तत्र प्रथम: समय: प्राप्तौ यस्य स तथा, सूक्ष्मः किट्टीकृत: सम्पराय: कषाय: सज्वलनलोभलक्षणो वेद्यमानो यस्मिन् स तथा, सह रागेण अभिष्वङ्गलक्षणेन य: स सराग:, स एव संयमः, सरागसंयमः [सरागस्य वा साधो: संयमो य: स तथा, पश्चात् कर्मधारय इत्येक:], द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अयं च द्विविधोऽपि श्रेणिद्वयापेक्षया पुनर्वैविध्यं लभमानोऽपि न विवक्षित इति चतुर्द्धा नोक्तः, तथा बादरा अकिट्टीकृता: सम्पराया: सज्वलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु