________________
६३२
सहस्सारे ३॥ एतेसु णमट्टसु कप्पेसु अट्ठ इंदा पन्नत्ता, तंजहा-सक्के जाव सहस्सारे ४।
एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पन्नत्ता, तंजहापालते, पुप्फते, सोमणसे, सिरिवच्छे, णंदियावत्ते, कामकमे, पीतिमणे, विमले ५।
[टी०] देवाधिकारादेव अट्ठ अहेत्यादिपञ्चसूत्री कण्ठ्या, नवरम् अहेलोगवत्थव्वाओ त्ति,
सोमणसगंधमायणविजुप्पभमालवंतवासीओ। अट्ठ दिसिदेवयाओ वत्थव्वाओ अहेलोए ॥ [ ] इति ।
भोगंकराधा अष्टौ या अर्हतो जन्मभवनसंवर्तकपवनादि विदधतीति । ऊर्ध्वलोकवास्तव्याः, तथा च– नंदणवणकूडेसु एयाओ उडलोयवत्थव्वाउ [ ] त्ति, या: अभ्रवर्द्दलकादि कुर्वन्तीति ।
तिरियमिस्सोववन्नग त्ति अष्टसु तिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यमिश्रास्ते मनुष्या उपपन्ना देवतया जाता येषु ते तिर्यमिश्रोपपन्नका इति ।
परियायते गम्यते यैस्तानि परियानानि, तान्येव परियानिकानि, परियानं वा गमनं प्रयोजनं येषां तानि पारियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति ।
[सू० ६४५] अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीते रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालिता तावि भवति ।
[टी०] देवत्वं च तपश्चरणादिति तद्विशेषमाह- अट्ठमियेत्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिर्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च, एवं द्वितीये द्वे, एवमष्टमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिके भिक्षाणां सर्वाग्रतो भवत इति, अहासुत्ता ‘अहाकप्पा अहामग्गा अहातच्चा सम्मं काएण फासिया पालिया