________________
६५२
विगतीओ त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहिएक्केण चेव तवओ पूरिज्जइ पूयएण जो ताओ । बीतिओ वि स पुण कप्पइ निव्विगइय लेवडो नवरं ॥ [पञ्चवस्तु० ३७७] ति ।
द्वितीयोऽपि विकृतिर्न भवतीति भावः । तत्र क्षीरं पञ्चधा अजैडका-गोमहिष्युष्ट्रीभेदात्, दधि-नवनीत-घृतानि चतुर्डेवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा तिलाऽतसी-कुसुम्भ-सर्षपभेदात्, गुडो द्विधा द्रव-पिण्डभेदात्, मधु त्रिधा माक्षिक-कौत्तिकभ्रामरभेदात्, मद्यं द्विधा काष्ठ-पिष्टभेदात्, मांसं त्रिधा जल-स्थला-ऽऽकाशचरभेदादिति।
[सू० ६७५] णवसोतपरिस्सवा बोंदी पण्णत्ता, तंजहा-दो सोत्ता, दो णेत्ता, दो घाणा, मुहं, पोसए, पाऊ ।
[टी०] विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह- नवेत्यादि, नवभिः श्रोतोभि: छिद्रैः परिश्रवति मलं क्षरतीति नवश्रोत:परिश्रवा बोन्दी शरीरमौदारिकमेवैवंविधम्, द्वे श्रोत्रे कर्णौ नेत्रे नयने घ्राणे नासिके मुखम् आस्यं पोसए त्ति उपस्था पायुः अपानमिति ।
[सू० ६७६] णवविधे पुन्ने पन्नत्ते, तंजहा-अन्नपुन्ने, पाणपुन्ने, वत्थपुन्ने, लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वतिपुन्ने, कायपुन्ने, नमोक्कारपुन्ने ।
[टी०] एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह– पुन्नेत्यादि, पात्रायाऽन्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं लेणं ति लयनं गृहम्, शयनं संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनान्नमस्काराच्च यत् पुण्यं तन्मन:पुण्यादीति, उक्तं च
अन्नं पानं च वस्त्रं च, आलय: शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ [ ] इति । [सू० ६७७] णव पावस्सायतणा पन्नत्ता, तंजहा-पाणातिवाते, मुसावाते जाव परिग्गहे, कोहे, माणे, माया, लोभे ।
[टी०] पुण्यविपर्यासरूपस्य पापस्य कारणान्याह– नव पावस्सेत्यादि कण्ठ्यम्,