________________
७६०
षष्ठ इत्यर्थः, चारं चरति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्यात् षष्ठ इत्यर्थः, चारं चरतीति व्याख्यातमेवेति । विद्धिकराई ति एतन्नक्षत्रयुक्ते चन्द्रमसि सति ज्ञानस्य श्रुतज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति अविघ्नेनाधीयते श्रूयते व्याख्यायते धार्यते चेति, भवति च कालविशेषस्तथाविधकार्येषु कारणम्, क्षयोपशमादिहेतुत्वात्तस्य, यदाहउदयक्खयखओवसमोवसमा जं च कम्मणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ [विशेषाव० ५७५] इति । तद्यथा- मगसिर गाहा कण्ठ्या ।। [सू० ७८२] चउप्पयथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता १।
उरपरिसप्पथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता २।
[टी०] द्वीप-समुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह– चउप्पयेत्यादि, चत्वारि पदानि पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां दशेति दशैव, जातौ पञ्चेन्द्रियजातौ यानि कुलकोटीनां जातिविशेषलक्षशतानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारकाणि शतसहस्राणि लक्षाणि तानि तथा, प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानम्, कुलानि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा वक्षसा परिसर्पन्ति सञ्चरन्तीत्युरःपरिसास्ते च ते स्थलचराश्चेत्यादि तथैव । - [सू० ७८३] जीवा णं दसठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणस्संति वा, तंजहा-पढमसमयएगिदियनिव्वत्तिए जाव अपढमसमयपंचेंदियनिव्वत्तिए। एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव । दसपतेसिता खंधा अणंता पण्णत्ता, दसपतेसोगाढा पोग्गला अणंता