________________
दशममध्ययनं दशस्थानकम् ।
७६१
पण्णता, दससमतद्वितीता पोग्गला अणंता पण्णत्ता, दसगुणकालगा पोग्गला अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला अणंता पण्णत्ता ॥
दसट्ठाणं समत्तं ॥छ। समत्तं च ठाणमिति ॥ __ [टी०] जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह- जीवा णमित्यादि, अथवा जाति-योनि-कुलादिविशेषा जीवानां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह– इति अस्य व्याख्या जीवा णमित्यादि, जीवा जीवनधर्माणः, न सिद्धा इति भाव:, णमिति वाक्यालङ्कारे, दशभिः स्थानैः प्रथमसमयैकेन्द्रियत्वादिभि: पर्याय: हेतुभिर्ये निर्वर्तिता बन्धयोग्यतया निष्पादितास्ते तथा, दशभिः स्थानै निर्वृत्तिर्वा येषां ते तथा, तान् पुद्गलान् कर्मवर्गणारूपान्, पापं घातिकर्म सर्व्वमेव वा कर्म तच्च तत् क्रियमाणत्वात् कर्म च पापकर्म, तद्भावस्तत्ता, तया पापकर्मतया चिणिंसु त्ति चितवन्तो गृहीतवन्त: चिन्वन्ति गृह्णन्ति चेष्यन्ति ग्रहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा
अनन्वयित्वेऽकृताभ्यागम-कृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथाप्रथम: समयो येषामेकेन्द्रियत्वस्य ते तथा, ते च ते एकेन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तै: [सद्भिर्ये निर्वर्तिताः कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा, तान्, एवं तद्विपरीतैरप्रथमसमयैकेन्द्रियै] निर्वर्तिता ये ते तथा, तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह- जावेत्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाहएवं चिणेत्यादि, इह चैवमक्षरघटना-चिण त्ति यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जरा च वाच्या:, चेव त्ति समुच्चये, नवरं चयनादीनामयं विशेष:-चयनं नाम कषायादिपरिणतस्य कर्मापुद्गलोपादानमात्रम्, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनम्, बन्धनं निकाचनम्, उदीरणा करणत उदये प्रवेशनम्, वेदनम् अनुभवनम्, निर्जरा जीवप्रदेशेभ्य परिशटनमिति ।
पुद्गलाधिकार एवेदमाह- दसेत्यादि सूत्रवृन्दं सुगमं च, नवरं दश प्रदेशा येषां ते