SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ७६२ तथा, त एव दशप्रदेशिका दशाणुका: स्कन्धा: समुच्चया इति द्रव्यत: पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः, तथा दश समयान स्थितिर्येषां ते तथेति कालतः, तथा दशगुण: एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां ते दशगुणकालकाः, एवमन्यैश्चतुर्भिर्वीभ्यां गन्धाभ्यां पञ्चभी रसैरष्टाभि: स्पर्शः विशेषिता: पुद्गला: अनन्ता वाच्या:, अत एवाहएवमित्यादि, जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्तेत्यनेन भावत: पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चाऽनन्तशब्दोपादानेन वृद्ध्यादिशब्देनेवान्तमङ्गलमभिहितम्, अयं चाऽनन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति । तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारम्, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीयानीति ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां दशस्थानकाख्यं दशमममध्ययनं समाप्तम्।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy