________________
४४६
आटोपेनेति शेष: ४, अणारिएसु त्ति विभक्तिव्यत्ययादनायै: म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेष:, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च
सालंबणो पडतो वि अप्पयं दग्गमे वि धारेइ । इय सालंबणसेवी धारेइ जई असढभावं ॥ [आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडइ भवोहे अगाहम्मि ॥ [आव० नि० ११८६-८७] इति । ]
तथा पढमपाउसंसि त्ति इह आषाढ-श्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट्, ऋतूनां वा प्रथमेति प्रथमप्रावृट्, अथवा चतुर्मासप्रमाणो वर्षाकाल: प्रावृडिति विवक्षितः।
ततस्तत्र प्रावृषि किमत आह– एकस्माद् ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं तेन, ग्रामपरम्परयेत्यर्थः, तत्र दूइजित्तए त्ति द्रोतुं विहर्तुमित्युत्सर्गः, अपवादमाह- पंचेत्यादि तथैव, नवरमिह प्रव्यथेत ग्रामाच्चालयेन्निष्काशयेत् कश्चित्, उदकौघे वा आगच्छति ततो नश्येदिति।
पज्जोसवियाणं ति परीति सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्याग: पीठ-फलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षापग्रहोपकरणधरणमभिनवोपकरणाग्रहणमित्यादि, शेषं तथैव।
पंचहिमित्यादि ज्ञानमेवार्थो यस्य स ज्ञानार्थः, तद्भावस्तत्ता, तया ज्ञानार्थतया ज्ञानार्थित्वेन, तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणा-स्त्र्यादिदोषदुष्टतया तद्रक्षणार्थम्, तथा आयरियउवज्झाये व त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा से तस्य भिक्षो: वीसुंभेज त्ति विष्वक शरीरात् पृथग् भवेत् जायेत, नियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थम्, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षाक्षेत्रस्य वर्तमानानां