________________
४४७
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । वैयावृत्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति, उक्तं चअसिवे ओमोयरिए रायदुढे भए व गेलन्ने । नाणाइतिगस्सट्ठा ३ वीसुंभण ४ पेसणेणं ५ च ॥ [निशीथभा० ३१२९, बृहत्कल्प० २७४१] इति।
अणुघाइय त्ति न विद्यते उद्घातो लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः, तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिका: । हस्तकर्म समयप्रसिद्धम्, तत् कुर्वाणः । मैथुनम् अब्रह्म अतिक्रमादिना सेवमानः । तथा भुज्यत इति भोजनम्, रात्रौ भोजनं रात्रिभोजनम्, तच्च द्रव्यतोऽशनादि, क्षेत्रत: समयक्षेत्रे, कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपम्, भावतो राग-द्वेषाभ्याम्, तद् भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषा:- संतिमे सुहुमा पाणा [दशवै० ६।२४-२६] इत्यादि ।
तथा अगारं गृहम्, सह तेन वर्त्तत इति सागार:, स एव सागारिकः शय्यातरः, तस्य पिण्डः आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च___ तण-छार-डगल- इत्यादि । इति सागारिकपिण्डः, तं भुञ्जानः । तथा राज्ञ: पिण्डो राजपिण्डः, तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आहजो मुद्धा अभिसित्तो पंचहिं सहिओ य भुंजए रजं । तस्स उ पिंडो वज्जो तब्विवरीयम्मि भयणा उ ॥ [निशीथभा० २४९७] ।
पंचहिमित्यादि नाइक्कमइ त्ति आज्ञामाचारं वेति । नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद् विदिक्षु, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात्, श्राम्यन्ति तपस्यन्तीति श्रमणा: मा वधीरिति प्रवृत्तिर्येषां ते माहना: उत्तरगुणमूलगुणवन्त: संयता इत्यर्थः, अथवा श्रमणा: शाक्यादय: माहना ब्राह्मणा नो संचाएंति न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तबहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं वेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्या वा राजान्त:पुरमनुप्रविशेत्, इह च शाक्यादीनां प्रयोजने यद् राज्ञो विज्ञापनं तदपवादापवादरूपम्, असंयताविरतत्वात्तेषाम्,