________________
४४८
एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकम् । तथा कृतप्रयोजनैः प्रतिह्रियते प्रतिनीयते यत्तत् प्रतिहारप्रयोजनत्वात् प्रातिहारिकम्, पीठं पट्टादिकं फलकम् अवष्टम्भफलकं शय्या सर्वाङ्गीणा फलकादिरूपा संस्तारको लघुतरो पीठ-फलक-शय्यासंस्तारकं पच्चप्पिणमाणे त्ति आर्षत्वात् प्रत्यर्पयितुं तत् प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमिति कृत्वेति द्वितीयम्। हयादेर्दुष्टादागच्छतो भीत इति तृतीयम् । पर: आत्मव्यतिरिक्त: सहस त्ति अकस्मात् बलस त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीत्वेति चतुर्थम् । बहिया व त्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थम्, तत्र आरामो विविधपुष्पजात्युपशोभित उद्यानं तु चम्पकवनाद्युपशोभितमिति, संपरिक्खिवित्त त्ति संपरिक्षिप्य परिवार्य सन्निविशेत क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति । इच्चेएहीत्यादिना निगमनम्, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्ग्रहणमप्यनेनैव सगृहीतं द्रष्टव्यमिति । । [सू० ४१६] पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणी वि गन्भं धरेजा, तंजहा- इत्थी दुव्वियडा दुन्निसण्णा सुक्कपोग्गले अधिट्ठिज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपविसेज्जा, सई व से सुक्कपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुक्कपोग्गला अणुपविसेजा। इच्चेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १।
पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गभं नो धरेजा, तंजहा- अप्पत्तजोव्वणा १, अतिक्कंतजोव्वणा २, जातिवंझा ३, गेलन्नपुट्ठा ४, दोमणंसिता ५ । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेजा २ । ___ पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गन्भं नो धरेज्जा, तंजहा- निच्चोउया, अणोउया, वावन्नसोया, वाविद्धसोया, अणंगपडिसेविणी। इच्चेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गन्भं णो धरेजा
पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गन्भं नो धरेजा,