________________
४४५
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । फलग-सेजा-संथारगं पच्चप्पिणमाणे रायंतेउरमणुपविसेज्जा २, हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउरमणुपविसेज्जा ३, परो व णं सहसा वा बलसा वा बाहाते गहाय रायंतेउरमणुपविसेज्जा ४, बहिता व णं आरामगतं वा उजाणगतं वा रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसेज्जा। इच्चेतेहिं पंचहिं ठाणेहिं समणे निग्गंथे जाव णातिक्कमति । ___ [टी०] उक्त: प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्ध:अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता, इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम्- नो कप्पईत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध:- पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्येवमस्याराद्गर्भसूत्राद् अन्येषां च सम्बद्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं नो कप्पइ त्ति न कल्पन्ते न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् वत्थगन्धमलङ्कार [दशवै० २।२]मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषाम्, तथा निर्ग्रन्थीनां साध्वीनाम्, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ, इमा इति वक्ष्यमाणनामत: प्रत्यक्षासन्नाः, उद्दिष्टाः सामान्यतोऽभिहिता यथा महानद्य इति, गणिता: यथा पञ्चेति, व्यञ्जिता व्यक्तीकृता: यथा गंगेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो गुरुनिम्नगा: अन्त: मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन् वारान् उत्तरीतुं लङ्घयितुं बाहु-जङ्घादिना सन्तरीतुं साङ्गत्येन नावादिनेत्यर्थः लवयितुमेव, सकृद्वोत्तरीतुम्, अनेकश: सन्तरीतुमिति, अकल्प्यता चात्म-संयमोपघात-सम्भवेन शबलचारित्रभावाद् ।
अपवादमाह-पंचेत्यादि, भये राज-प्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १, दुर्भिक्षे वा भिक्षाऽभावे सति २, पव्वहेज त्ति प्रव्यथते बाधते अन्तर्भूतकारितार्थत्वाद् वा प्रवाहयेत् कश्चित् प्रत्यनीक: तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थ: ३, दओघंसि त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनाऽऽगच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता वा