________________
४२१
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । तप्पढमताते णो खभातेजा । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो खभातेजा।
[टी०] एते चावधिमन्त इत्यवधिस्वरूपमाह-पंचहीत्यादि व्यक्तम्, नवरम् अवधिना दर्शनम् अवलोकनमर्थानामुत्पत्तुकामं भवितुकामं तत्प्रथमतायाम् अवधिदर्शनोत्पादप्रथमसमये खभाएज्ज त्ति स्कभ्नीयात् क्षुभ्येत्, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति, अवधिमानिति गम्यते, क्षुभ्येद् अल्पभूतां स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दो विकल्पार्थः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् ‘आः ! किमेतदेवम्' इत्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः १, तथाऽत्यन्तप्रचुरत्वात् कुन्थूनां कुन्थुराशिभूतां कुन्थुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मय-दयाभ्यामिति २, तथा महतिमहालयं ति महातिमहत् महोरगशरीरं महाऽहितनुं बाह्यद्वीपवर्ति योजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा पुरेषु व त्ति नगरायेकदेशभूतानि, 'प्राकारावृतानि पुराणी'ति प्रसिद्धम्, तेषु पुराणानि चिरन्तनानि, ओरालाई क्वचित् पाठः तत्र मनोहराणीत्यर्थः, महइमहालयाई ति विस्तीर्णत्वेन महानिधानानीति महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेक्तारः सेचकास्तेष्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किं बहुना ?, निधायकानां यानि गोत्रागाराणि कुलगृहाणि तान्यपि प्रहीणानि येषाम् । अथवा तेषामेव गोत्राणि नामान्याकाराश्च आकृतयस्ते प्रहीणा येषां तानि [प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा,] एवमुच्छन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः किञ्चित्सत्तावन्तः उच्छन्ना निर्नष्टसत्ताकाः, यानीमानि अनन्तरोक्तविशेषणानि, तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति यत्र स आकरो लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकरम्, धूलीप्राकारोपेतं खेटम्, कुनगरं कर्बटम्, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्बम्, यस्य जल-स्थलपथावुभावपि तद् द्रोणमुखम्, यत्र जलपथ-स्थलपथयोरन्यतरेण पर्याहारप्रवेशस्तत् पत्तनम्,