________________
४२२
तीर्थस्थानमाश्रमः, यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि वहन्ति स संवाहः, यत्र प्रभूतानां भाण्डानां प्रवेशः स संनिवेशः, तथा शृङ्गाटकं त्रिकोणं रथ्यान्तरं स्थापना 7, त्रिकं यत्र रथ्यानां त्रयं मिलति _। , चतुष्कं यत्र रथ्याचतुष्टयम् +, चत्वरं रथ्याष्टकमध्यम् =II, चतुर्मुखं देवकुलादि, महापथो राजमार्गः, पथो रथ्यामात्रम्, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् स्मशानागारं पितृवनगृहम्, शून्यागारं प्रतीतम्, तथा गृहशब्दसम्बन्धात् गिरिगृहं पर्वतोपरि गृहम्, कन्दरगृहं गिरिगुहा गिरिकन्दरं वा, शान्तिगृहं यत्र राज्ञां शान्तिकर्म होमादि क्रियते, शैलगृहं पर्वतमुत्कीर्य यत् कृतम्, उपस्थानगृहम् आस्थानमण्डपोऽथवा शैलोपस्थानगृहं पाषाणमण्डपः, भवनगृहं यत्र कुटुम्बिनो वास्तव्या भवन्तीति, तेषु सन्निक्षिप्तानि न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभावति, इच्चेएहीत्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कभ्नीयात् केवली वा, याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भय-विस्मय-लोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आहपंचहीत्यादि सुगममिति।
सू० ३९५] णेरइयाणं सरीरगा पंचवण्णा पंचरसा पन्नत्ता, तंजहा-किण्हा जाव सुक्किला, तित्ता जाव मधुरा । एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पन्नत्ता, तंजहा-ओरालिते, वेउव्विते, आहारते, तेयते, कम्मते।
ओरालितसरीरे पंचवन्ने पंचरसे पन्नत्ते, तंजहा-किण्हे जाव सुक्किले, तित्ते जाव महुरे, एवं जाव कम्मगसरीरे ।
सव्वे वि णं बादरबोंदिधरा कलेवरा पंचवण्णा, पंचरसा, दुगंधा, अट्ठफासा।
[टी०] तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय नेरइयाणमित्यादिसूत्रप्रपञ्चः, गतार्थश्चायम्, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां शरीरिणां शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति । जाव सुक्किल त्ति किण्हा नीला लोहित हालिद्दा सुकिला य, जाव महुर त्ति तित्ता कडुया कसाया अंबिला महुरा य, जाव वेमाणियाणं