________________
अष्टममध्ययनं अष्टस्थानकम् ।
६०३
अनादेयवचनश्चासौ प्रत्याजातश्चेति, शेषं कण्ठ्यं यावद् भासउ त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति।
मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागर्हितत्वमुक्तविपर्ययस्वरूपमाह । हारेण विराजितं वक्षः उरो यस्य स तथा, कटकानि प्रतीतानि तुटितानि बाह्वाभरणविशेषास्तै: स्तम्भितौ स्तब्धीकृतौ भुजौ बाहू यस्य स तथा । अंगदेत्यादि, कर्णावेव पीठे आसने कुण्डलाधारत्वात् कर्णपीठे, मृष्टे घृष्टे गण्डतले च कपोलतटे कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपद: प्राकृतत्वात् कर्मधारयः, अङ्गदे च केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति य: स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च कर्णाभरणविशेषभूते धारयति य: स तथा, तथा विचित्राणि विविधानि हस्ताभरणानि अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य, वस्त्राण्येव वाऽऽभरणानि भूषणानि, अवस्थाभरणानि वा अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च पुष्पमाला मौलिश्च शेखरो यस्य विचित्रमालानां वा मौलिर्यस्य स तथा, कल्याणकानि मङ्गल्यानि प्रवराणि मूल्यादिना वस्त्राणि परिहितानि निवसितानि येन तान्येव वा परिहितो निवसितो य: स तथा, कल्याणकं प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्यं मालायां साधु पुष्पमित्यर्थः अनुलेपनं च श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा दीप्रा बोन्दी शरीरं यस्य स तथा, प्रलम्बा या वनमाला आभरणविशेषस्तां धारयति यः स तथा, दिव्येन स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन संहननेन वज्रर्षभनाराचलक्षणेन संस्थानेन समचतुरस्रलक्षणेन ऋद्ध्या विमानादिरूपया युक्त्या अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया प्रभावन माहात्म्येनेत्यर्थः, छायया प्रतिबिम्बरूपया अर्चिषा शरीरनिर्गततेजोज्वालया तेजसा शरीरस्थकान्त्या लेश्यया अन्त:परिणामरूपया शुक्लादिकया उद्द्योतयमानः स्थूलवस्तूपदर्शनत: प्रभासयमानस्तु सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोष:, उत्कर्षप्रतिपादकत्वेनाऽभिहितत्वादिति, महता प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहत: अनुबद्धो