SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६७९ एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्य: सुलभौषधयोऽर्थवृद्धिश्च ॥४॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः । अजमृगवैश्वानरवीथिष्वर्घभयादितो लोकः ॥५॥ [ ] इति । [सू० ७००] नवविधे नोकसायवेयणिज्जे कम्मे पन्नत्ते, तंजहा-इत्थिवेदे, पुरिसवेदे, णपुंसगवेदे, हासे, रती, अरई, भये, सोगे, दुगुंछा । [टी०] वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्ति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादिति सम्बन्धात् प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह– नवविहेत्यादि, इह नोशब्द: साहचर्यार्थः, कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते यत् कर्म तन्नोकषायवेदनीयमिति । तत्र यदुदयेन स्त्रिया: पुंस्यभिलाष: पित्तोदयेन मधुराभिलाषवत् स फुफुकाग्निसमान: स्त्रीवेदः, यदुदयेन पुंस: स्त्रियामभिलाष: श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमान पुंवेदः, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाष: पित्त-श्लेष्मणोरुदये मजिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत् कर्म हास्यम्, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद् रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद् भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तजुगुप्साकर्मेति । [सू० ७०१] चउरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता। भुयगपरिसप्पथलचरपंचेंदियतिरिक्खजोणियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता । [सू० ७०२] जीवा णं णवट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, [तंजहा-] पुढविकाइयनिव्वत्तिते जाव पंचेंदियनिव्वत्तिते । एवं
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy