________________
अष्टममध्ययनं अष्टस्थानकम् ।
६०१ सर्वं सुगमम्, नवरं तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्य:, स इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे नामए त्ति सम्भावनायामलङ्कारे वा अयआकरो लोहाकरः यत्र लोहं ध्मायते, इतिरुपप्रदर्शने, वा विकल्पे, तिला धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषा:, नवरं तुषा: कोद्रवादीनाम्, बुसं यवादीनां कडङ्गरः, नलः शुषिरशराकारः, दलानि पत्राणि, सुण्डिका: पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवल्ल्यो वा सम्भाव्यन्ते, तासां लिंत्थाणि चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः- गोलियसोंडियभंडियलित्थाणि अग्नेराश्रयाः [ ], अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम्, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भाण्डिका: स्थाल्य:, ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम्, लिंत्थानि तान्येवेति, कुम्भकारस्यापाको भाण्डपचनस्थानम्, कवेल्लुकानि प्रतीतानि तेषामापाकः प्रतीत एव, जंतवाडचुल्ली इक्षुयन्त्रपाटचुल्ली, लोहारंबरिसाणि व त्ति लोहकारस्याम्बरीषा भाष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि उष्णानि, समानि तुल्यानि जाज्वल्यमानत्वात् ज्योतिषा वह्निना भूतानि जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं पलासकुसुमम्, तत्समानानि रक्ततया, उल्का इव उल्का अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुञ्चन्ति विनिर्मुञ्चन्तीति भृशार्थे द्विवचनम्, अङ्गारा लघुतराग्निकणाः, तत्सहस्राणि प्रविकिरन्ति प्रविकिरन्ति अन्तरन्तः झियायंति ध्मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तः, दार्टान्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति जाज्वल्यते, अहमेसे त्ति अहमेषोऽभिशङ्क्ये अहमेषोऽभिशक्य इति एभिरहं दोषकारितया आशङ्क्ये सम्भाव्ये इति, उक्तं हिनिच्वं संकियभीओ गम्मो सव्वस्स खलियचारित्तो । साहुजणस्स अवमओ मओ वि पुण दुग्गइं जाइ ॥ [उपदेशमाला० २२६] अनेनाऽनालोचकस्यायं लोको गर्हितो भवतीति दर्शितम् । से णं तस्सेत्यादिना, पाठान्तरेण मायी णं मायं कह इत्यादिना वा उपपातो गर्हितो