________________
६००
एकदिग्गामिन्यप्रसिद्धिः, अवर्ण: अयश: सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद् द्वयमविद्यमानं मे भविष्यतीति, अपनयो वा पूजा-सत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ।
उक्तार्थस्य विपर्ययमाह- अट्टहीत्यादि सुगमम्, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायाम् अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत- अस्सिं ति अयं लोको जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादिति, उक्तं च
भीउव्विग्गनिलुक्को पायडपच्छन्नदोससयकारी । अप्पच्चयं जणंतो जणस्स धीजीवियं जियइ ॥ [उपदेशमाला० ४७८] त्ति । इत्येकम् । तथा उपपातो देवजन्म गर्हितः किल्बिषिकादित्वेनेति, उक्तं चतवतेणे वइतेणे इत्यादि ।। [दशवै० ५।२।४६] इति द्वितीयम् ।
आजाति: ततश्च्युतस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं चतत्तो वि से चइत्ताणं लब्भिही एलमूयगं । नरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ॥ [दशवै० ५।२।४८] इति तृतीयम् । तथा एकामपि मायी मायाम् अतिचाररूपां कृत्वा यो नालोचयेदित्यादि नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च
लज्जाए गारवेण य बहुस्सुयमएण वा वि दुच्चरियं । जे न कहिंति गुरूणं न हु ते आराहगा होंति ॥ [उत्तरा० नि० २१७] इत्यादि चतुर्थम् । तथा एकामपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाहउद्धरियसव्वसल्लो भत्तपरिन्नाए धणियमाउत्तो।। मरणाराहणजुत्तो चंदगवेझं समाणेइ ॥ [ओघनि० ८०७] इति पञ्चममिति ।
एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च षष्ठ-सप्तमे । तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् मायी णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमम् । शेषं सूत्रम् अयं लोक उपपात आजातिश्च गर्हितेत्यस्य पदत्रयस्य विवरणतया अवगन्तव्यम् । मायी मायं कट्ट त्ति