________________
षष्ठमध्ययनं षट्स्थानकम् ।
५२५
जरते, पज्जरते ।
चउत्थीए णं पंकप्पभाते पुढवीते छ अवक्कंतमहानिरता पन्नत्ता, तंजहाआरे, वारे, मारे, रोरे, रोरुते, खाडखडे ।
[टी०] अनन्तरं साधुचर्योक्तेति चर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं जंबूदीवेत्यादि सुगमम्, नवरम् अवक्कंत त्ति अपक्रान्ता: सर्वशुभभावेभ्योऽपगता भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा अकमनीया:, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः एतेषां चैवं प्ररूपणा
तेरिकारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसंखा एसा सत्तसु वि कमेण पुढवीसु ॥ [बृहत्सं० २५३]
एवमेकोनपञ्चाशत् प्रस्तटाः, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्प्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयत्रैकैकहान्या सप्तम्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्येवेति ।
तत: पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादय: षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम्- लोले तह लोलुए चेव [विमान० ३०] इति, एतौ चावलिकाया: पर्यन्तिमौ, तथा उद्दढे चेव निद्दड्डे[विमान० २७]त्ति एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा जरए तह चेव पजरए [विमान० २९] त्ति पञ्चत्रिंशत्तम-षट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलाप:, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा- उत्तरायां लोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतॊ दक्षिणायां लोलावशिष्ट इत्यादि। __इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निर्विशेषं विवक्षितमिति सम्भाव्यते। चउत्थीए त्ति पङ्कप्रभायाम् अपक्रान्ता अपकान्ता