________________
५२४
सूक्ष्मत्रसा: तेजोवायव इति तथा एतेषु देवानुत्पत्तेश्च, यत उक्तम्पुढवी-आउ-वणस्सइ-गब्भे पजत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥ [बृहत्सं० १८०] इति ।
सम्मूर्च्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति ।
[सू० ५१४] छव्विहा गोयरचरिया पन्नत्ता, तंजहा-पेडा, अद्धपेडा, गोमुत्तिया, पतंगवीहिया, संबुक्कवट्टा, गंतुंपच्चागता ।
[टी०] अनन्तरं सत्त्वविशेषा उक्ताः सत्त्वानां चानपायत: साधुना भिक्षाचर्या कार्येति, सा च षोढेति दर्शयन्नाह– छव्विहेत्यादि, गोयरचरिय त्ति गो: बलीवईस्य चरणं चर: गोचरस्तद्वद्या चर्या चरणं सा गोचरचर्या, इदमुक्तं भवति– यथा गोरुच्चनीचतृणेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत् साधोररक्तद्विष्टस्योच्च-नीच-मध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम्, सा च चतुरस्रा भवति , ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन् विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृहपङ्क्त्योरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः शलभस्तस्य वीथिका मार्ग: तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा, संबुक्कवट्ट त्ति संबुक्कः शङ्खस्तद्वच्छङ्खभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छङ्खवृत्तत्वगत्याऽटन् क्षेत्रमध्यभागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहि:सम्बुक्केति । गंतुंपच्चागय त्ति उपाश्रयान्निर्गत: सन्नेकस्यां गृहपङ्क्तौ भिक्षमाण: क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्तौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति ।
[सू० ५१५] जंबूदीवे दीवे मंदरस्स पव्वतस्स दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवक्वंतमहानिरता पन्नत्ता, तंजहा-लोले, लोलुए, उद्दड्डे, निद्दड्डे,