________________
षष्ठमध्ययनं षट्स्थानकम् ।
प्राग् व्याख्यातम्, तत्र धर्म - शुक्ले एव तपसी निर्जरार्थत्वात्, नेतरे बन्धहेतुत्वादिति ५, व्युत्सर्गः परित्यागः, स च द्विधा - द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषय इति ६ । एते च तपः सूत्रे दशकालिकाद्विशेषतोऽवसेये इति ।
५२३
[सू० ५१२] छव्विहे विवादे पन्नत्ते, तंजहा - ओसक्कतित्ता, उस्सक्वइत्ता, अणुलोमइत्ता, पडिलोमतित्ता, भइत्ता, भेलतित्ता ।
[टी०] अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह– छव्विहेत्यादि, षड्विधः षड्भेदो विप्रतिपन्नयोः क्वचिदर्थे वादो जल्पो विवादः प्रज्ञप्तः, तद्यथाओसक्वइत्त त्ति अवष्वष्क्य अपसृत्याऽवसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च ओसक्वावइत्त त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसर्प्य अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, उस्सक्वइत्त त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय, उस्सक्कावइत्त त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा अणुलोमइत्त त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा, प्रतिपन्थिनमेव वा पूर्वं तत्पक्षाभ्युपगमेनाऽनुलोमं कृत्वा पडिलोमइत्ता प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्ये सतीति, तथा भइत्त त्ति अध्यक्ष भक्त्वा संसेव्य, तथा भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः, क्वचिद् भेयइत्त त्ति पाठः, तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः ।
[सू० ५१३] छव्विहा खड्डा पाणा पन्नत्ता, तंजहा - बेंदिता, तेंदिता, चउरिंदिता, संमुच्छिमपंचेंदिततिरिक्खजोणिता, तेउकातिता, वाउकातिता ।
[टी०] विवादं च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूत्पद्यन्त इति तान्निरूपयन्नाह– छव्विहेत्यादि सुगमम्, परमिह क्षुद्रा: अधमाः, अधमत्वं च विकलेन्द्रिय-तेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्
भूदगपंकप्पभवा चउरो हरिया उ छच्च सिज्झेज्जा
विगला लभेज्ज विरइं न हु किंचि लभेज सुहुमतसा || [बृहत्सं० २९७]