________________
अष्टममध्ययनं अष्टस्थानकम् ।
६०५
अट्ठविहेत्यादि सूत्रद्वयं कण्ठ्यम् ।
[सू० ५९९] अट्ठ फासा पन्नत्ता, तंजहा-कक्खडे, मउते, गरुते, लहुते, सीते, उसिणे, निद्धे, लुक्खे । [टी०] अनन्तरं कायासंवर उक्तः, कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं कण्ठ्यं चेति। [सू० ६००] अट्ठविधा लोगट्टिती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्टिते उदही, एवं जधा छट्ठाणे जाव जीवा कम्मपतिट्ठिता, अजीवा जीवसंगहिता, जीवा कम्मसंगहिता ।
[टी०] स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमतो लोकस्थितिविशेषमाह अट्ठविहेत्यादि कण्ठ्यम्, एवं जहा छट्ठाणे, तत्र चैवम्– उदधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३, पुढविपइट्ठिया तसा थावरा पाणा, मनुष्यादय इत्यर्थः ४, अजीवा जीवपइट्ठिया, शरीरादिपुद्गला इत्यर्थ: ५, जीवा कम्मपइट्ठिया, कर्मवशवर्तित्वादिति ६, अजीवाः पुद्गलाकाशादयो जीवैः सगृहीता: स्वीकृता:, अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७, जीवाः कर्मभि: ज्ञानावरणादिभिः सगृहीता बद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ।
[सू० ६०१] अट्ठविधा गणिसंपता पन्नत्ता, तंजहा-आचारसंपता, सुयसंपता, सरीरसंपता, वतणसंपता, वातणासंपता, मतिसंपता, पतोगसंपता, संगहपरिण्णा णाम अट्ठमा ।
[टी०] इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाहअट्ठविहा गणिसंपयेत्यादि, गण: समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य सम्पत् समृद्धिर्भावरूपा गणिसम्पत्, तत्राचरणमाचारः अनुष्ठानं स एव सम्पत् विभूतिस्तस्य वा सम्पत् सम्पत्तिः प्राप्ति: आचारसम्पत्, सा च चतुर्द्धा, तद्यथा- संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १, असंप्रग्रहः, आत्मनो जात्याधुत्सेकरूपग्राहवर्जनमिति भाव: २, अनियतवृत्ति:, अनियतविहार इति योऽर्थः ३, वृद्धशीलता, वपुर्मनसो निर्विकारतेति यावत् ४ एवं श्रुतसम्पत् । साऽपि चतुर्द्धा, तद्यथा- बहुश्रुतता, युगप्रधानागमतेत्यर्थः १, परिचितसूत्रता २, विचित्रसूत्रता