________________
६०६
स्वसमयादिभेदात् ३, घोषविशुद्धिकरता च, उदात्तादिविज्ञानादिति ४ । शरीरसम्पच्चतु , तद्यथा- आरोहपरिणाहयुक्तता, उचितदैर्घ्यविस्तरतेत्यर्थः १, अनवत्रप्यता, अलज्जनीयाङ्गतेत्यर्थ: २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४ । वचनसम्पच्चतु , तद्यथा- आदेयवचनता १, मधुरवचनता २, अनिश्रितवचनता, मध्यस्थवचनतेत्यर्थः ३, असन्दिग्धवचनता चेति ४ । वाचनासम्पच्चतुर्द्धा, तद्यथा- विदित्वोद्देशनम् १, विदित्वा समुद्देशनम्, पारिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थ: २, परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुन: सूत्रदानमित्यर्थः ३, अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थ: ४। मतिसम्पच्चतुर्द्धा, अवग्रहेहा-ऽपाय-धारणाभेदादिति। प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये १, पुरुषपरिज्ञानं किंनयोऽयं वाद्यादि: २, क्षेत्रपरिज्ञानम् ३, वस्तुपरिज्ञानम्, वस्तु त्विह वादकाले राजामात्यादि ४ । सङ्ग्रहपरिज्ञा, सङ्ग्रहः स्वीकरणम्, तत्र परिज्ञा ज्ञानं नाम अभिधानमष्टमी सम्पत्, सा च चतुर्विधा, तद्यथा- बालादियोग्यक्षेत्रविषया १, पीठ-फलकादिविषया २, यथासमयं स्वाध्याय-भिक्षादिविषया ३, यथोचितविनयविषया चेति ४ ।
[सू० ६०२] एगमेगे णं महानिधी अट्ठचक्कवालपतिट्ठाणे अट्ठ अट्ठ जोयणाई उहुंउच्चत्तेणं पन्नत्ते ।
[सू० ६०३] अट्ट समितीतो पन्नत्ताओ, तंजहा-इरियासमिती, भासासमिती, एसणासमिती, आयाणभंड[मत्तनिक्खेवणासमिती], उच्चार-पा[सवणखेल-सिंघाणग[-जल्लपरिट्ठावणियासमिती] मणस [मिती] वतिस मिती] कायसमिती ।
[टी०] आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावानिधिव्यतिकरमाह- एकेत्यादि, एकैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान: अष्टचक्रप्रतिष्ठित:, मञ्जूषावत्, तत्स्वरूपं चेदम्नवजोयणवित्थिन्ना बारसदीहा समूसिया अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइट्ठिया नव वि ॥ [ ]