________________
नवममध्ययनं नवस्थानकम् ।
६४७
एत्तो आढत्तं जधा समाए निरवसेसं जाव एक्का से गब्भवसही, सिज्झिहिती आगमेसे णं ॥११४॥
जंबुद्दीवे दीवे भरहे वासे आगमेस्साते उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेवमायरो भविस्संति, एवं जधा समाते निरवसेसं जावमहाभीमसेणे सुग्गीवे य अपच्छिमे ॥११५॥ एते खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । सव्वे य चक्कजोही, हम्मीहंती सच्चक्केहिं ॥११६॥ [टी०] जीवानां कर्मण: सकाशानक्षत्रादिदेवत्वं तिर्यक्त्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दम् अभीत्यादि हम्मीहंती सचक्केहिं इत्येतदन्तमाह, सुगमं चेदं वृन्दम् । नवरं साइरेग त्ति सातिरेकान्नव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागैः षट्षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, उत्तरेण जोगं ति उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः । बहुसमरमणिजाउ त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, अबाधाए त्ति अन्तरे ‘कृत्वे'ति वाक्यशेष:, अवरिल्ले त्ति उपरितनम्, तारारूपं तारकजातीयं चारं भ्रमणं चरति आचरति । नवजोयणिय त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशतयोजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, पयावईत्यर्द्धं श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सक्षेपायाऽतिदिशन्नाहएत्तो त्ति इत: सूत्रादारब्धं जहा समाए त्ति समवाये चतुर्थाशे यथा तथा निरवशेष ज्ञेयम्, तच्चार्थत इदम्– नव वासुदेव-बलदेवानां [पितरः] मातरः तेषामेव नामानि पूर्वभवनामानि धर्माचार्या निदानभूमयो निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह- जाव एक्का इत्यादि गाथापश्चार्द्धम्, पूर्वार्द्धं त्विदमस्या:- अटुंतकडा रामा एगो पुण बंभलोयकप्पम्मि [समवायाङ्गे सू० १५८ गा० १४०] त्ति । सिज्झिस्सइ