________________
६४६
तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिः अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिः आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि स्वप्तः केशवार्द्धबलसदृशी शक्तिर्भवति, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं सामान्यग्राही बोधश्चक्षुर्दर्शनम्, तस्यावरणं चक्षुर्दर्शनावरणम्, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनम्, तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना रूपिमर्यादया, अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनम्, तस्यावरणमवधिदर्शनावरणम्, तथा केवलम् उक्तस्वरूपं तच्च तद्दर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणम् ।
[सू० ६६९] अभिती णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धिं जोगं If I
अभीतिआतिया णं णव नक्खत्ता चंदस्स उत्तरेणं जोगं जोतेंति, तंजहाअभीती सवणो धणिट्ठा जाव भरणी ।
[सू० ६७०] इमीसे णं रतणप्पभाते पुढवीते बहुसमरमणिज्जातो भूमिभागाओ णव जोयणसते उ अबाहाते अवरिल्ले तारारूवे चारं चरति ।
[सू० ६७१] जंबूदीवे णं दीवे णव जोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा ।
[सू० ६७२] जंबुद्दीवे दीवे भरहे वासे इमीसे ओसप्पिणीते व बलदेववासुदेवपितरो होत्था, तंजहा
पयावती त बंभे, रुद्दे सोमे सिवे ति त ।
महसीह अग्गिसीहे, दसरहे नवमे त वसुदेवे ॥११३॥