________________
नवममध्ययनं नवस्थानकम् ।
साजीर्णे भुज्यते यत्तु तदध्यसनमुच्यते [ ] इति वचनात् अध्यसनम् अजीर्णे भोजनम्, तदेव तत्ता, तयेति, भोजनप्रतिकूलता प्रकृत्यनुचितभोजनता, तया, इन्द्रियार्थानां शब्दादिविषयाणां विकोपनं विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम्
आदावभिलाषः १ स्याच्चिन्ता तदनन्तरं २ ततः स्मरणम् ३।
तदनुगुणानां कीर्त्तन ४ मुद्वेगोऽथ ५ प्रलापश्च ६ ॥
६४५
उन्मादस्तदनु ७ ततो व्याधि ८ र्जडता तत ९स्ततो मरणम् १० । [ रुद्रटकाव्यालं० १४।४-५।] इति ।
विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति ।
[सू० ६६८] णवविधे दरिसणावरणिजे कम्मे पन्नत्ते, तंजहा - निद्दा, निद्दानिद्दा, पयला, पयलापयला, थीणगिद्धी, चक्खुदंसणावरणे, अचक्खुदंसणावरणे, ओहिदंसणावरणे, केवलदंसणावरणे ।
[टी०] शारीररोगोत्पत्तिकारणान्युक्तानि, अथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह– नवेत्यादि, सामान्य- विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनम्, तस्यावरणस्वभावं कर्म दर्शनावरणम्, तत् नवविधम्, तत्र निद्रापञ्चकं तावत् द्रा कुत्सायां गतौ [पा० धा० १०५४], नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोध भवति, तद्विपाकवेद्या कर्म्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, साहि चङ्क्रमणादि कुर्वतः स्वप्नुर्भवत्यतः स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यातिशायिनी,