SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ६१० तस्मिन्नेकार्णवीभूते नष्टस्थावरजङ्गमे। नष्टामरनरे चैव प्रणष्टोरगराक्षसे ॥ केवलं गहरीभूते महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तप: ॥ तत्र तस्य शयानस्य नाभे: पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकर्णिकम् ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ अदिति: सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुन: सर्वबीजानाम् ॥ [ ] इत्यादि ४ । तथा सातं सुखमभ्यसनीयमिति वदतीति सातवादी, तथाहि- भवत्येवंवादी कश्चित् सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपो-नियम-ब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्द्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ [ ] अक्रियावादिता चास्य संयम-तपसो: पारमार्थिकप्रशमसुखरूपयो: दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ५ । तथा समुच्छेदं प्रतिक्षणं निरन्वयनाशं वदति य: स समुच्छेदवादी, तथाहि- वस्तुन: सत्त्वं कार्यकारित्वम्, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, न चेदेवं प्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति, यौगपद्येनापि न करोति इत्यादि ६ । तथा नियतं नित्यं वस्तु वदति य: स तथा, तथाहि- नित्यो लोकः, आविर्भाव-तिरोभावमात्रत्वादुत्पाद-विनाशयो:, तथा असतोऽनुत्पादाच्छशविषाणस्येव सतश्चाविनाशात् घटवत्, नहि सर्वथा घटो
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy