________________
अष्टममध्ययनं अष्टस्थानकम् ।
६११ विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् तासां चापारमार्थिकत्वात्, मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७ । तथा नसंति-परलोगवाइ त्ति नेति न विद्यते शान्तिश्च मोक्ष: परलोकश्च जन्मान्तरमित्येवं यो वदति स तथा, तथाहिनास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात् खरविषाणवत्, तदभावान्न पुण्य-पापलक्षणं कर्म, इत्यादि विस्तारो वृत्तितोऽन्यग्रन्थतो वा ज्ञेय इति ८।
[सू० ६०८] अट्ठविधे महानिमित्ते पन्नत्ते, तंजहा-भोमे, उप्पाते, सुविणे, अंतलिक्खे, अंगे, सरे, लक्खणे, वंजणे ।
एते च वादिन: शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याहअट्ठ महानिमित्तेत्यादि, अतीता-ऽनागत-वर्तमानानामतीन्द्रियभावानामधिगमे निमित्तं हेतुर्यद्वस्तुजातं तन्निमित्तम्, तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येकं सूत्र-वृत्ति-वार्तिकत: क्रमेण सहस्र-लक्ष-कोटीप्रमाणानीति कृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौमं भूकम्पादि, तदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह
शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राजा राज्यं च पीड्यते ॥ [ ] इत्यादि । उत्पादः(तः?) सहजरुधिरवृष्ट्यादिः २ । स्वप्नो यथामूत्रं वा कुरुते स्वप्ने पुरीषं वाऽतिलोहितम् । प्रतिबुद्ध्येत् तदा कश्चिल्लभते सोऽर्थनाशनम् ॥ [ ] इति ३ । अन्तरिक्षम् आकाशं तत्र भवमान्तरिक्षं गन्धर्व्वनगरादि, यथाकपिलं सस्यघाताय माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं कुरुते बलक्षोभं न संशयः ॥ गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥ [ ] इत्यादि ४ । अङ्गं शरीरावयवः, तद्विकार आङ्गं शिरःस्फुरणादि, यथा